प्रथमः पाठः । आद्यकृषकः पृथुवैन्यः ।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट् । प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत् । राज्याभिषेकसमये आसीत्। चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः । तदा पृथुः आज्ञापयत्, “तिष्ठन्तु चारणाः ! यावत् मम सद्गुणाः न प्रकटीभवन्ति तावदहं न स्तोतव्यः । स्तवनं तु ईश्वरस्यैव भवेत् ।” स्तुतिगायकाः पृथुनृपस्य एतादृशीं नि:स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्।

एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत् भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशाः अशक्ताश्च ताः प्रजाः पशुवज्जीवन्ति निकृष्टान्नं खादन्ति । तद् दृष्ट्वा राजा चिन्ताकुलः जातः तदा पुरोहितोऽवदत्, “हे राजन्, धनधान्यादि सबै बस्तुजातं वस्तुत: वसुन्धराया: उदर एवं वर्तते तत्प्राप्तुं यतस्व ।”

तदा पृथुभूपेन तदर्थं धनुः सज्जीकृतम्। तदा भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् अवदत् च, “हे राजेन्द्र तब पिता दुःशासक: बेनराज: राजधर्मस्य पालनं नाकरोत्। तदा मया चोरलुण्ठकभयात् धनधान्यपुष्पफलानि मम उदरे निहितानि त्वं तु प्रजाहितदक्षः नृपः यदि त्वं प्रयत्नेन कृषिकार्य करोषि तर्हि अहं प्रसन्ना भविष्यामि। अतः धनुः त्यज खनित्राणि, हलान, कुद्दालकान् लवित्राणि च हस्ते गृहीत्वा प्रजाजनैः सह कृषिकार्यं कुरा”

भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः नदीनां मार्ग अवरुध्य कृषिकार्यार्थि जलस्य उपयोगम् अकरोत्। वृष्टिजलमयं कृत्वा जलव्यवस्थापनम् अकरोत् भूमिम् उपमाकर्तुं प्रायततः तदनन्तर नस्मिन् क्षेत्रे जना धान्यवीजानि अवस्तु स नैकेभ्यः वृक्षेभ्यः विविधप्रकारकाणा बीजाना सङ्कलन चयन व परिश्रमेण अकरोत्। अनन्तरं बीजानां संस्करणं कृत्वा उपनम् अकरोत् । पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः । धान्यलाभेन सर्वे प्रजाजनाः सन्तुष्टाः च अभवन्। एष: कल्याणकारी नृपः पृथिव्यां प्रशासने अग्रणी: जनसेवाव्रती च अभवत्।